SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अध्यायः ६ पू.] शास्त्रतत्त्वविनिर्णयः भूयोऽभ्यस्तार्थतो यो हि विरुद्धोऽर्थः प्रतीयते। तमर्थवाद इत्याहुः प्रशंसैकप्रयोजनम् ॥ ६९ ॥ विरोधे तुल्यबलयोः कल्पभेदाद्वयवस्थितिः । इत्थं शास्त्राशयोऽगम्यो न्यायसाहाय्यमन्तरा॥ ७० ॥ तस्मादगम्यशास्त्रीयविषयेष्वल्पबुद्धिभिः । न वाच्यः सहसा दोषो बुद्धेरल्पत्वमूह्यताम् ॥ ७१ ॥ अथो चतुर्पु वेदेषु शङ्कन्ते यत्परे जनाः । भाषाभेदकृतं दोषं तं तु नोपलभामहे ॥ ७२ ॥ चतुर्वेदीयमन्त्राणां ब्राह्मणानां तथैव च । वेदान्तानामपि तथा भापैकैवोपलभ्यते ॥ ७३ ॥ अथाथर्वणवेदीयोपनिषत्सु तु कासुचित् । भाषा श्रुतिविजातीया दृश्यते लौकिकीति चेत् ॥७४॥ आस्तां किं तावता वेदमहिमा क्षतिमृच्छति । अपि चोरैः समाक्रान्तः किं साधुरपि दूष्यते ॥ ७५ ॥ विचित्रे हिजगत्यस्मिञ्जना नानाविधाः स्थिताः। कः किं करिष्यतीत्यस्य ज्ञाताको नाम विद्यते ॥ ७६ ॥ का स्त्री त्याज्या भुजङ्गानां क्रिमग्राह्यं च लोभिनाम् । को न तुच्छो मदान्धानां किमकार्यंदुरात्मनाम् ॥७७॥ न तावता तु वेदानां हीयेत महिमा क्वचित् । न हि काचशतैर्व्याप्तं रत्नं मौल्येन हीयते ॥ ७८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy