________________
षष्ठोऽध्यायः
(पूर्वार्धम्) तथा हि शास्त्रदृष्टानां बहुत्वादध्वनां तु यः । दोषः प्रतीयते तत्र समाधानमिदं शृणु ॥ १ ॥ यद्यपीश्वररूपस्य यथार्थज्ञानमेककम् । मुक्तेः साधनमित्याहुन प्रकारान्तरं क्वचित् ॥ २॥ यथार्थभगवद्पावबोधे चैककारणम् । वेदान्ता इति सिद्धान्तःश्रुतिषु स्मरणेषु च ॥ ३॥ यथार्थं भगवद्रूपं यथा वेदान्तदर्शने । कथ्यते तदिहास्माभिरुपरिष्टात्प्रवक्ष्यते ॥ ४॥ तथापि मन्दबुद्धीनां तर्कदूषितसंविदाम् । . न येषामधिकारोऽस्ति तत्त्वे वेदान्तबोधिते ॥ ५॥ श्रेयस्तेषामपि भवत्विति मत्वा दयालुना। कृताः शास्त्रान्तराध्वानः सर्वेषां हितमिच्छता॥ ६ ॥ अतय॑सदसत्कर्मपरिपाकवशान्नृणाम् । आनन्त्यमधिकाराणामुत्तमाधमरूपिणाम् ॥ ७ ॥ दृश्यन्ते पुरुषा लोके येषां वेदान्तदर्शने ।
सिडेऽपि श्रद्धाभावोऽधिकारजः॥ ८॥ तथा हीश्वरकृष्णाद्याःसाङ्ख्यमेव गतिविदुः। तर्कविद्यामथ परेऽमन्यन्तोदयनादयः ॥ ९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com