SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ سا अध्यायः ५] शास्त्रतत्त्वविनिर्णयः ४३ ये तावदीशसृष्टेषु स्वर्गतास्तजनुर्वरम् । . ये पुनर्नरकावासास्तेषां सृष्टिनिरर्थिका ॥ ३८ ॥ कथं नु दुःखभाजः स्युः सृज्येरन्नैव ते यदि। न दयालोरिदं योग्यं सृष्ट्वा तदुःखदर्शनम्॥ ३९॥ तस्मान्न स्वर्गनरको धर्माधर्मी निरर्थको । उपपत्त्या त्विदं सिध्येच्छास्त्रं चेदवमन्यते ॥ ४० ॥ नन्वीश्वरः कर्मफलं न दद्याद्यदि चेत्तदा । प्रजा भवेयुरुवृत्ता इत्येतत्सोपपत्तिकम् ॥ ४१॥ अत्रोच्यतेकर्मणः फलमस्तीति सर्वे जानन्ति यद्यपि । तथापि लोके दुर्वृत्ताः सन्त्येव बहवो नराः ॥ ४२ ॥ ये तावत्साधवो लोके ते तु सवृत्तमास्थिताः। अथ दुष्टस्वभावानां न स्वप्ने पापजं भयम् ॥ ४३ ॥ तथा धर्माद्यभावेऽपि ये तावत्सत्स्वभाविनः । परदुःखानि जानन्तः पीडयेयुर्न ते परान् ॥ ४४॥ अथ दुष्टस्वभावा ये निघणाः परपीडकाः । तेषां सत्त्वेऽप्यसत्त्वे वा वृत्तं तूभयथा समम् ॥ ४५ ॥ किं न चार्वाकलोकेषु व्यवहारः प्रवर्तते । न ते धर्ममधर्म वा मन्यन्ते नारकं भयम् ॥ ४६॥ स्याद्वेदमीश्वरस्यैव सामर्थ्य किञ्चिदद्भुतम् । व्यवहारो निराबाधो येन लोके प्रवर्तते ॥ ४७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy