________________
४२
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ५
तथा हि लोकनृपतिदृष्टान्तादिभिरीश्वरः । तत्तत्कर्मफलं यच्छत्येवमादि प्रबोध्यते ॥ २८ ॥ अर्थधर्मादिकं सत्यं मत्वा शास्त्रैकमानतः । सिद्धस्यैव गतिर्खेषा दृष्टान्तायैः प्रकल्प्यते ॥ २९ ॥ तिरस्क्रियेत चेच्छास्त्रवचो धर्मादिबोधकम् । तथापि तर्कसिद्धाया उपपत्तेस्तु न क्षतिः ॥ ३० ॥ यथा राजा प्रजाकर्मफलं यच्छति वै तथा । ईश्वरेणापि तदेयमित्येवं नियमः कुतः ॥ ३१ ॥ क्रीडार्थमीश्वरोऽस्राक्षील्लोकांस्ते मृत्यनन्तरम् । मुच्यन्त इत्येव परं लाघवादुपपद्यते ॥ ३२ ॥ किं च सृष्टेः पूर्वकाले नासञ्जीवास्तु केचन । असन्तः स्वेच्छया सृष्टा ईशेनेति भवन्मतम् ॥ ३३ ॥ इत्थमीशेन सृष्टेषु तेषु पापकृतां नृणाम् । अनन्तो नरके वास इति तावदसंभवि ॥ ३४ ॥ कथमीशस्त्रिकालज्ञस्तेषां वै दोषशालिताम् । भविष्यत्कालिकी जानन्दुःखभोगाय तान्सृजेत् ॥३५॥ मत्सृष्टेषु भविष्यन्ति खल्वेते पापबुद्धयः । ततोऽतिदुःखभोक्तार इति जानन्कथं सृजेत् ॥ ३६॥ न हि दोषावहं वस्तु प्राकृतोऽपि सिसृक्षति। दयालुश्व भविष्यज्ञः कथंदुःखाय तान्सृजेत्॥ ३७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com