________________
अध्यायः ५]
शास्त्रतत्त्वविनिर्णयः
४१
उपपत्त्यनुरोधान्चेच्छास्त्रप्रामाण्यमिष्यते । लाघवात्स्वर्गनरको धर्मान्यौ च न सिध्यतः ॥ १८ ॥ ईश्वरादभवन्सर्वे यद्वा स्वपितृमातृतः । मृतेरूवं विलीयन्ते लाघवादरित्वदं वरम् ॥ १९ ॥ एतावानेव वै शास्त्रे यस्मिन्नर्थो भवेन्मतः । तदेव युक्तमन्यानि हेयानीत्यपि सेत्स्यति ॥ २० ॥ किमर्थौ स्वर्गनरको धर्माधर्मकथा वृथा । यावज्जीवमुषित्वेह ल यन्त इति लाघवात् ॥ २१॥ नाधर्मप्रभवं दुःखं न धर्मप्रभवं सुखम् । तत्तत्संयोगजं दुःखं तत्तत्संयोगजं सुखम् ॥ २२ ॥ शीताद्यर्थान्सेवमानः पीड्यते च ज्वरादिभिः। स्वाद्वन्नमथ भुञ्जानो नीरोगः सुखमेधते ॥ २३ ॥ तदेवं युक्तिसिद्धाभिर्बह्वीभिरुपपत्तिभिः । दुष्यन्तां किमु शास्त्रोक्ता अर्था धर्मादिकास्तु ये॥२४॥ किं तु शास्त्रेषु ये प्रोक्ता अर्थाः साधव एव ते। इति मत्वोपपत्तिस्तु तद्वोधाय प्रयुज्यताम् ॥ २५ ॥ योऽयं शास्त्रोदितोऽर्थोऽसौ संभवेद्वान संभवेत्। इति शङ्कानिरासार्थ बोधार्थ चोपपाद्यते ॥ २६ ॥ सुग्रहो जायते ह्यर्थो दृष्टान्ताद्यैर्निरूपितः । असंभवादिशङ्काश्च गच्छन्त्यर्थोपपादनात् ॥ २७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com