________________
४०
[ अध्यायः ५
शास्त्रतत्त्वविनिर्णयः परीक्षा सुप्रयुक्तापि नेह स्यात्कार्यकारिणी । सदोषार्थविहीने हि परीक्षा किं करिष्यति ॥ ८ ॥ तस्मादेवंविधाः शङ्का निरर्था एव केवलम् । किं त्वायः संमतं यद्यत्तत्प्रमाणमिति स्थितिः ॥ ९ ॥ श्रुतिस्मृत्यादिकं शास्त्र पूर्वैरायः सुसंमतम् । वेदाः प्रमाणमूर्धन्या एष पन्थाः सनातनः ॥ १० ॥ वयं हि भगवद्वाचि दृढं विश्वसिमः श्रुतौ । श्रद्धा चलति नास्माकमप्यसत्कल्पनाशतैः ॥ ११ ॥ वेदानां भारतादेश्च शास्त्रस्य मानवस्य च । वाक्प्रागल्भ्यादनिर्वाच्या भूयः श्रद्धा विवर्धते ॥१२॥ निरुक्तबाह्मणादीनां सूत्रादीनां तथैव च । वाङ्माधुर्यादनिर्वाच्याद् भूयःश्रद्धा विवर्धते॥ १३ ॥ तदेतदैश्वरं शास्त्रं प्रसन्नं गूढहेतुमत् । शङ्कापङ्कनिरासाथ बोधार्थ चोपपाद्यते ॥ १४ ॥ शास्त्रानुगैवोपपत्तिर्नोपपत्त्यनुगं तु तत् । स्वतःप्रमाणकं शास्त्रमुपपत्तिस्तु तद्विदे ॥ १५ ॥ ईश्वरः स्वर्गनरको धर्माधर्मादिकं च यत् । सत्यं मत्वोपपाद्यं तद्युक्त्या तदनुकूलया ॥ १६ ॥ सत्यान्मत्वैव शास्त्रार्थानुपपत्त्योपपादयेत् । नोपपत्त्यनुरोधेन ते दूष्या इति मे मतिः ॥ १७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com