________________
३८
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ४
को वेद धातुराकृतं तत्त्वं धर्मस्य चैव यत् । अन्यस्य चान्यथाभानं ननु स्वाभाविकं नृणाम्॥५७॥' कुर्युर्यद्यपि वास्तम्भं कुतर्का भवदीरिताः । तथापि वैदिकाडर्मात्सतां श्रद्धा न हीयते ॥ ५८ ॥ तस्मान्मोघा भवत्ता अत्यल्पधिषणोद्भवाः। सर्वशुद्धतम शास्त्रं श्रद्धेयं हितकाङ्क्षिभिः ॥ ५९॥
इति शास्त्रतत्त्वविनिर्णये शास्त्रश्रद्धावश्यकताकथनपूर्वकतर्काप्रतिष्ठाननिरूपणं नाम चतुर्थोऽध्यायः ॥ ४ ॥
१ अत उत्तरं “घटकुड्यादिनिर्माणे या तावच्छिल्पिनां कृतिः । सापि न ज्ञायते पुम्भिः सहमाभ्यासवर्जितैः ।। किं पुनर्जगतां कर्तुरचिन्त्यकृतशालिनः । ज्ञायेत सहसा तत्त्वं यच्छास्रेषु प्रदर्शितम् ॥ गम्भीरः शास्त्रविषयो न ग्राह्योऽल्पमनीषया । न च दूषयितुं योग्यः स्वबुद्धिकृतनिश्चयः ॥” इति श्लोकत्रयमधिकम् आ पुस्तके इ पुस्तके त्वतच्छ्लोकत्रय प्राग्लिखितमपि पश्चानिष्कासितं दृश्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com