SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अध्यायः ४] शास्त्रतत्त्वविनिर्णयः यद्यप्यत्र वदेत्कश्चिद् बुद्धिमान् किञ्चिदुत्तरम्। तस्याप्यन्यो वदेदेव नान्तस्तर्कस्य विद्यते ॥ ४७ ॥ अपहाय ततो. दोषांस्तदृष्टिसमीक्षितान् । कार्यः शास्त्रे सुविश्वास आत्मनो भद्रमिच्छता॥४८॥ अथापि धर्मज्ञानार्थं वेदशास्त्राविरोधतः । नरस्तकं प्रयुञ्जानो न दुष्टो मनुरवीत् ॥ ४९ ॥ द्विस्वभावा हि पुरुषानास्तिका आस्तिका इति। यत्स्वभावो भवेद्यस्तु तथार्थं सोऽधिगच्छति ॥ ५० ॥ क्रियन्ते यादृशास्तको बालिशैर्धर्महन्तृभिः । न ते कृतधियां चित्तमधिरोहन्ति जातुचित् ॥ ५१ तर्का यद्यपि भूयांसो वाक्तम्भाय प्रदर्शिताः। तथापि विश्वरचना करोत्यास्तिकतां दृढाम् ॥ ५२ ॥ ईशो नास्तीति जल्पन्तो मूढान्मन्यन्त आरितकान् । त एव वस्तुतो बाला इति जानन्ति सूरयः ॥ ५३ ॥ तत्त्वेषु लौकिकार्थानामपि मुह्यति यन्मतिः । धर्मतत्त्वं दूषयन्तः किं ते न बत बालिशाः ॥ ५४ ॥ यश्च मूढतमो लोके यश्च बुद्धः परं गतः । तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ ५५ ॥ भवद्भिरपि तर्केण यदि दोषाः प्रकल्पिताः । तावता ब्रूत किं त्याज्य एष पन्थाः सनातनः॥ ५६॥ १ एतदादि श्लोकषट्कम् आ पुस्तके नास्ति, इ पुस्तके च शोधरूपेण पश्चाल्लिखित दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy