________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ४
यदि चैकं मतं कुर्यात्तद्विरुडान्यसौ तदा । बलात्प्रलोपयेदेव यदीच्छति नृणां शिवम् ॥ ३७॥ पुरुषा भिन्नदेशीया मतान्युच्चावचानि तु । धर्मभीत्या प्रवृत्त्यर्थं नृणां नूनमकल्पयन् ॥ ३८ ॥ अकस्मात्खात्पतदृष्ट्वा जलं चकितचेतसः ।। ईशोऽस्तीत्यवदन्केचिन्मूढा अनुययुश्च तान् ॥ ३९ ॥ यद्देश्याः पुरुषाः सर्वे एकमत्यस्वभाविनः । तद्देश्यानां मतमपि दृष्टमेकपथाश्रितम् ॥ ४० ॥ निसर्गाद्भिन्नमतयो यद्देश्याः सन्ति मानवाः । तत एव हि तद्देश्यैः कृतं बहुपथं मतम् ॥ ४१॥ बह्वाश्चर्याणि श्रूयन्ते यानि ग्रन्थेषु केवलम् । नैकमप्यधुना तेषु दृश्यते कर्हिचित्वचित् ॥ ४२ ॥ तथा हि मनुजैः सार्धं संवादा ईश्वरस्य च । . अशरीरास्तथा वाचो धर्मविश्वासकारिकाः ॥ ४३ ॥ एवमाश्चर्यकर्माणि धर्मश्रद्धाप्रदानि तु । क्षणे क्षणे प्रजातानि श्रयन्ते ग्रन्थमात्रतः ॥ ४४ ॥ नैकमप्यधुना कस्मादृश्यते धर्मकाङ्क्षिभिः । नृणां तद्वञ्चनायैव सर्व धूर्तेः प्रकल्पितम् ॥ ४५ ॥ प्रमत्तानामिदं गीतं तर्कसंपर्ककर्कशम् । निरोर्बु कः समर्थोऽस्ति शुष्कतर्कसमाश्रयः॥ ४६॥ १ 'यदि वापि मतं'–आ, इ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com