SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अध्यायः ४] श'स्त्रतत्त्वविनिर्णयः ३५ किं च व्यवस्था जगतो यदि स्यादीशनिर्मिता। नियमेनैव सा तिष्ठेदीशः प्रामाणिको यतः ॥ २७॥ महतां व्यवहारो हि नियतो भवति ध्रुवम् । क्षणमन्या क्षणादन्या त्वियं क्षुद्रहृदां कृतिः ॥ २८ ॥ . ततो जनन्याः स्तन्यादि यदि चेदीशनिर्मितम्। न म्रियेत शिशुः कोऽपि क्षुधा निःस्तन्यमातृकः॥ २९ ॥ पुनरप्यखिलं विश्वं यदि स्यादीशकर्तृकम् । तदा वृष्टयन्नपानादि न कुर्याद्गौरवावहम् ॥ ३० ॥ स ह्यात्मनः प्रभावेन शक्नुयादवितुं नरान्' । न कुर्यादेव वा व्यर्थी पिपासां च क्षुधामपि ॥ ३१ ॥ तस्मात्स्वभावतः सन्ति विश्वस्मिन्नद्भुता गुणाः। बुद्धिमद्भिः किं तु जनैस्तत्तदर्थेषु योजिताः ॥ ३२ ॥ धर्माधर्मों केन दृष्टो व स्वर्गनरकावपि । देहे पञ्चत्वमापन्ने किं तन्नामावशिष्यते ॥ ३३ ॥ नरैस्तुल्या अपि यथा पशवो मरणात्परम् । पृथिव्यादौ विलीयन्ते को विशेषो नरेष्वपि ॥ ३४ ॥ बहुदोषाणि दृश्यन्ते मतानि सकलान्यपि । तानि नैशानि वै तस्मादविश्वास्यास्तदुक्तयः ॥ ३५ ॥ कस्माच्चेशोमतं कुर्यात् किं हि तम्य प्रयोजनम् । नृणां स मुक्तिमिच्छेच्चेत्कि न दद्यात्तथैव ताम् ॥ ३६॥ १ 'नरात्'-आ, इ. २ एतदादि श्लोकसप्तकम् आ पुस्तके शोधरूपेण पश्वाल्लिखितं दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy