________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ४
एवं व्यवस्था महती सृष्टौ या परिदृश्यते । अकस्मात्कुत आयाता तस्मात्कर्तास्ति निश्चितः॥ १८ ॥ अत्रोच्यतेएवं व्यवस्थितजगत्कर्तृताशक्तिरीश्वरे केनार्पिता कुतः प्राप्ता कथमासादिता वद ॥ १९॥ एवमद्भुतसामर्थ्य · सर्वज्ञमपि चेश्वरम् । को वासृजदिति ब्रूहि व्यवस्थितजगत्कृतम् ॥ २० ॥ ज्ञानं सामर्थ्यमीशे च दृष्टे सृष्टयुपयोगिनी। एवं व्यवस्थासंयुक्तमीशं कोऽसृजदुच्यताम् ॥ २१॥ स्वाभाविकी व्यवस्थेशे सोऽनादिरिति चेत्तदा । स्वाभाविकी व्यवस्थापि जगतः किं न कल्प्यते॥ २२ ॥ तथा ह्यत्रोक्तया युक्त्या तुल्या युक्तिः प्रदर्शिता। विदुषा भास्करार्येण स्वसिद्धान्तशिरोमणौ ॥ २३ ॥ मूर्तो धर्ता धरित्र्याश्चत्तस्याप्यन्यरततोऽपरः। अनवस्थैवमन्त्ये चेत्स्वशक्तिः सादिमेऽस्त्विति॥ २४ ॥ अकस्मात्खात्पतदृष्ट्वा जलं चकितचेतसः। अधीरा हेत्वविद्वांसः कश्चिदीशं प्रचक्षते ॥२५॥ जगदत्यद्भुतं दृष्ट्वा यदि कर्तास्य कल्प्यते।। ईशेऽप्यद्भुतताहेतोर्भवेत्कर्तृपरम्परा ॥२६॥ १ आ पुस्तक एतदादि श्लोकद्वयं पश्चिमशोधरूपेण लिखितं दृश्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com