________________
अध्यायः ४]
शास्त्रतत्त्वविनिर्णयः ननूत्पादयिताद्यस्य पुंसः कोऽन्यः परात्मनः । इति चेदीश्वरस्यापि कोऽस्ति कर्तेति भण्यताम्॥ ९ ॥ यद्यनादिर्जगत्कर्ता न कर्ता तस्य कश्चन । आस्तामनादिनी तर्हि पुंसामेव परम्परा ॥१०॥ ननु कार्य कर्बधीनमित्यस्य नियमस्य च । घटादौ दर्शनात्कर्ता वृष्टयादेरपि कल्प्यते ॥११॥ मैवम्न हि कार्यस्य हेतुत्वं पुरुषे मन्महे वयम् । किं तु संजायते कार्य यावत्कारणसंगमे ॥१२॥ सक्वचिच्चेतनाधीनःक्वचित्स्वाभाविकोऽपि च। यथा घटादौ भ्रम्यादिश्चतनेनैव साध्यते ॥१३॥ प्रभञ्जनोप्तबीजादेस्तथैवोत्पद्यते फलम् । अन्वयव्यतिरेकाभ्यां हेतुता हेतुसंगमे ॥१४॥ अत्राहअन्नमापश्व जन्तूनां सर्वेषामपि जीवनम् । नियमेन च तद् वृष्टया काले काले समेधते ॥ १५॥ पृथिवी षड्रसान्सूते पुष्यन्ते यैश्च जन्तवः . । वनस्पतींश्च विविधान् रोगाणां व्याहतिर्यतः॥ १६ ॥ जायमानस्य च शिशोः पालनार्थं स्तनान्तरे। उत्पद्यते पयो धात्र्या यावच्चास्य प्रयोजनम् ॥ १७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com