________________
चतुर्थोऽध्यायः
श्रद्धैव केवलं शास्त्रे प्रयोक्तव्या हितेच्छुभिः । न हि तर्कस्य निष्ठास्ति स बुद्धिमनुवर्तते ॥ १ ॥ शास्त्र एवेश्वरः प्रोक्तस्तथैव तदुपासनाः 1 यज्ञादीन्यथ कर्माणि तत्तथा न तदन्यथा ॥ २ ॥ इन्द्राद्या देवता याश्च गङ्गास्नानादिकं च यत् । अन्ये चोच्चावचा धर्माः सत्याः शास्त्रैकमानतः ॥ ३ ॥ तदाक्षिपथ तर्काच्चेत्सर्वं तर्केण लुप्यति न प्रयोजनमीशस्य न स्वर्गो न च रौरवम् ॥ ४ ॥ तर्कगर्भप्रमत्तानां वचो हि बहुनिष्ठुरम् उन्मूलयद्धर्मपथं कः खण्डयितुमीश्वरः तथा हि-
1
1
॥ ५॥
1
स्त्रियः पुरुषसंयोगाज्जनयन्त्यखिलान्नरान् बीजानि चैव सस्यादीन्संयोगान्मृज्जलोष्मणाम् ॥ ६ ॥ प्रासादादीन् शिल्पिजना एवं विश्वस्य कल्पना । किं प्रयोजनमीशस्य व स्वर्गः क्व च रौरवम् ॥ ७ ॥ प्रतिबन्धकसत्त्वाद्वा कारणासंनिधेरपि कृतेऽपि यत्ने पुरुषैः फलं नोत्पद्यते कचित् ॥ ८ ॥
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com