________________
अध्यायः ३] शास्त्रतत्त्वविनिर्णयः
३१ भवतां च दृढाश्रद्धाहेतोरेवोद्भवन्ति वै । अस्मच्छास्त्रस्य विषये नानाकारा विकल्पनाः ॥ ६५ ॥ वेदान्व्यरचयन्केचिजातिभेदः प्रकल्पितः । इत्याद्याः कल्पना ज्ञेया अश्रद्धकभवा इति ॥ ६६ ॥ नास्तिक्यबुद्धिः पापिष्ठा सदर्थमपि मुञ्चति । श्रद्धा परमकल्याणी मातेवावति मानवान् ॥ ६७ ॥ तस्मान्न साहसं कार्यमैश्वरेऽर्थे सनातने । अश्रद्धाप्रभवस्तों ह्यनर्थायैव केवलम् ॥ ६८ ॥ अचिन्त्याः खलु येभावान तांस्तकेंण योजयेत्। नाप्रतिष्ठिततर्केण गम्भीरार्थस्य निश्चयः ॥ ६९ ॥ गम्भीरमैश्वरं शास्त्रं नृतर्कागोचरार्थवत् । तत्र दोषं न वै पश्येत्क्षुद्रा हि नरबुद्धयः ॥ ७० ॥ प्रतीतोऽप्यल्पया बुद्धया नेह दोषोऽस्ति वस्तुतः। तत्तत्तत्त्वपरिज्ञानात्सा सा शङ्का निवर्तते ॥ ७१ ॥
इति शास्त्रतत्त्वविनिणये हितोपदेशो नाम तृतीयोऽध्यायः ॥ ३॥
१ अत. पूर्वे 'श्रीः' इत्यधिकम् अ आ पुस्तकयोः.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com