SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ शास्त्र तत्त्वविनिर्णयः अध्यायः ३ अथो यावनदेशेषु भवदीयेषु चेश्वरः । कथञ्चिन्नृहितार्थाय खामुपासामुपादिशत् ॥ ५५ ॥ तथा हि भवतां शास्त्रं बालधीगोचरार्थकम् । तथैव यवनादीनामपि भाति समन्ततः ॥ ५६ ॥ अस्माकं त्वतिगम्भीरं वेदवाचा च दिव्यया । प्रोक्तं बह्वध्वभिर्युक्तं गूढतत्त्वं च दृश्यते ॥ ५७ ॥ वेदानां भारतादेश्च शास्त्रम्य मानवस्य च । वाक्प्रागल्भ्यादनिर्वाच्याच्छडातीव विवर्धते ॥ ५८ ॥ निरुक्त ब्राह्मणादीनां सूत्रादीनां तथैव च । वाङ्माधुर्यादनिर्वाच्याद्भूयः श्रद्धा विवर्धते ॥ ५९॥ यथा यथा भवद्भिश्च प्रोच्यते तत्र दूषणम् । गाम्भीर्यनिश्चयद्वारा भूयः श्रडा विवर्धते ॥६० ॥ यथार्थ भगवद्रूपबोधकं दृढहेतुमत् । गम्भीरं च प्रसन्नं च शास्त्रमस्माकमेव हि ॥ ६१ ॥ किं त्वेतद्भवतां देशे न दृष्टं नापि वा श्रुतम् । स्वमते च कुलप्राप्ते केवलं जातनिश्चयैः ॥ ६२ ॥ भवद्भिरकृतश्रद्धैः सहसैवोपलक्षितम् । तस्मादसदिवाभातं न तु गर्हितुमर्हथ ॥६३ ॥ भाति ह्यश्रदधानानां सेश्वरं सकलं मृषा । तथा चानन्तरेऽध्याये स्फुटं तदर्शयिष्यते ॥ ६४॥ १ एतदादि श्लोकसप्तकम आ पुस्तके पश्चिमशोधरूपेण लिखितं दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy