________________
शास्त्रतत्त्वविनिर्णयः
किं त्वाज्ञा तस्य यत्रास्ति तत्रैवासौ समर्च्यते ।
यतः शास्त्रं प्रमाणं नः कार्याकार्यव्यवस्थितौ ॥ ४५ ॥ भगवन्नामकीर्तनेन
तथैव
निरन्तरम् ।
ईशे मुहुर्मुहुश्वेतो याति तत्रापि का क्षतिः ॥ ४६॥ अथ स्वपितरं पुत्रः पितः पितरिति ब्रुवन् | खेदं करोति वै तद्वदीशनाम्नेत्यसद्वचः ॥ ४७॥ येन केन प्रकारेण स्वस्मिंश्चित्तप्रवेशनात् । प्रसीदति जगन्नाथो न तु खिद्यति लोकवत् ॥ ४८ ॥ लोकतुल्यस्वभावश्चेद् भगवानपि कल्पितः । सर्वकालमकार्या स्यात्तत्स्तुतिश्च भवन्मता ॥ ४९ ॥ प्राकृताः खलु खिद्यन्ति ह द्विक्षेपादिकारणात् । हन्तानन्तमहिम्नस्तु हीयते किं तदुक्तिभिः ॥ ५० ॥ विश्वोत्पत्त्यादिविषये ये ये चार्था भवन्मते ।
अध्यायः ३ ]
२९
सर्वे ते बालधीगम्या बालधीकल्पिता अपि ॥ ५१ ॥ तथा हि व्यसनित्वाद्या दोषाः प्राक्प्रतिपादिताः । बहवस्तत्र दृश्यन्ते तद्धि बालिशधीकृतम् ॥ ५२ ॥ मूढैरपि यदीयार्थी गृह्यन्ते सहसा धिया । न तदैश्वरतत्त्वेन युक्तं नाप्यैश्वरं मतम् ॥ ५३॥ अथवा परमेशेन देशेऽस्मिन्ब्राह्मणान्विते ।
पवित्रे सकलो नूनं स्वाभिप्रायः स्फुटीकृतः ॥ ५४ ॥
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat