________________
अध्यायः ३]
शास्त्र
शास्त्रतत्त्वविनिर्णयः
ततस्तात्पर्यविज्ञानं सर्वत्रापेक्ष्यते खलु । ज्ञायते किंतु लोकानां प्रसङ्गेनेगितादिना ॥ २५ ॥ ईश्वरस्य तु तात्पर्य कथं वा ज्ञायतां नृभिः । तस्मान्न दूष्यतां शास्त्रं बुद्धरल्पत्वमूह्यताम् ॥ २६ ॥ तात्पर्यज्ञानशून्यानां यो ह्यर्थो भाति शब्दतः। ज्ञायमाने तु तात्पर्ये सोऽन्यथैवावभासते ॥ २७ ॥ नन्वेवं गूढतात्पर्य नेश्वरः प्रणयेन्मतम् । तद्धि सर्वोपकारार्थमिति चेन्मैवमुच्यताम् ॥ २८ ॥ यदुक्तमतिगम्भीरं दोषदृष्टिसमीक्षितम् । तदेव श्रद्धया दृष्टं नितरां सुग्रहं यतः ॥ २९ ॥ तथा हि शास्त्रमार्गेषु श्रद्दधानास्तु ये रताः। तेऽथ सुखेन गृह्णन्तः परं प्रेम भजन्ति च ॥ ३० ॥ तर्कदृष्ट्या तु ये दोषांस्तत्र पश्यन्ति बालिशाः। ईशाशयः कथं ज्ञात इति तान्प्रति नो वचः॥ ३१॥ दुर्बोधं रूपमीशस्य तन्नीतिरपि दुर्ग्रहा । तबोधकस्य शास्त्रस्य गाम्भीर्यमपि युज्यते ॥ ३२ ॥ लौकिकैरपि भूपालैः कल्प्यते या प्रजावने । नीतिस्तत्स्था अपि जनैख़यन्ते नैव हेतवः ॥ ३३ ॥ कथं पुनर्भगवतो नानाहेतुमयी परा । नीतिभवेन्न गम्भीरा यत्र मुह्यन्ति सूरयः ॥ ३४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com