________________
शास्त्रतत्त्वविनिर्णयः
ननुत्पन्नस्य बालस्य पित्राद्या दोषिणो यतः । ततोऽसावपि तज्जन्मा दुष्टत्वाद्दण्डमर्हति ॥५५॥
इत्यसत्
अध्यायः २ ]
यद्यागसोऽन्यदीयस्य दण्डमन्यत्र पातयेत् । पुरुषेऽनपराधेऽपि कथं स्यान्न्यायवान्प्रभुः ॥५६॥ पितुर्दुर्बुद्धिता पुत्रे न प्रसर्पति जातुचित् । पैत्रो हि शुक्रसंबन्धाच्छिशोर्देहो न चास्य धीः ॥५७॥ तथा हि दृश्यते लोकेऽप्यन्तरं तातपुत्रयोः । सुदुर्मतेरपि सुतो दृष्टः साधुशिरोमणिः ॥५८॥ ईशदत्तैव धिषणा दुष्टां दद्याच्च तां कथम् ।
दत्वा च तां दण्डयेच्चेदेष न्यायी कथं भवेत् ॥५९॥ ईशाज्ञोच्छेदरूपश्च योऽपराधः परात्मनः । स एव दोष इत्युक्तो जातमात्रे त्वसौ कुतः ॥६०॥ को हि तस्यापराधोऽसौ यद् दुष्टादजनिष्ट सः । जन्म खल्वीश्वराधीनं नाधीनं पुरुषस्य तत् ॥ ६१ ॥ यदि नामेश्वरो दत्वा दुष्टादस्मै बलाज्जनिम् । तत्कृते दण्डयेदेनं कथं स्यान्नीतिकृत्तमः ॥६२॥ किं च सृष्टे विश्वसन्तः शुध्यन्तीति भवन्मतम् । तथाविधानां भवतां शिशूनां दुःखिता कुतः ॥ ६३ ॥ आस्तां चोत्पन्नमात्राणां शिशूनां वृत्तवर्णनम् । महतामपि दुःखादितारतम्यमहेतुकम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
११
॥६४॥
www.umaragyanbhandar.com