________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः २
एकात्मानौ हि तो देवौ भिन्नौ दृष्टिभिदावशात् । तयोः कथं स्यात्कलहः का च तस्मात्तयोः क्षतिः॥४५॥ किं तु यत्पक्षपातेन युध्यतस्तौ परस्परम् । तत्कर्मतारतम्येन तयोर्जयपराजयो ॥४६॥ नास्त्येव परमेशस्य पक्षपातोऽपि वस्तुतः । किं तु यस्य यथा कर्म तादृशं नियतं फलम् ॥४७॥ स्ववशोऽपि जगन्नाथो न्यायसंरक्षणाय वै । तत्तत्कर्मानुसारेण करोति विविधाः क्रियाः ॥४८॥ ननु पुंसामनादित्वे कथमीश्वरजीवयोः । सेव्यसेवकभावः स्यादिति चेत्का न्विह क्षतिः ॥४९॥ यथैककालजनुषोलॊके हि स्वामिभृत्ययोः । सेव्यसेवकभावस्य नास्ति हानिस्तु सर्वथा ॥५०॥ तथामोघानन्तशक्तिज्ञानस्य परमात्मनः । युज्यन्ते सेवका जीवा अल्पज्ञाः क्षुद्रशक्तयः॥५२॥ किं च प्राग्जन्मजं कर्म नोररीक्रियते यदि। जन्मतोऽन्धाः पङ्गवश्व जायन्ते प्राणिनः कुतः॥५२॥ नाणुरप्यपराधो यैरीशस्याकारि जन्तुभिः । अत्यन्तं दुःखभाजस्तान्दयावान्कुरुते कथम् ॥५३॥ तस्माद्यस्मिन्मते प्रोक्तमेवमीशविचेष्टितम् । ईशनिन्दाकरं साक्षाच्छ्रडेयं ननु तत्कथम् ॥५४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com