________________
अध्यायः २]
शास्त्रतत्त्वविनिर्णयः
ईशसृष्टाश्च पुरुषाः प्रायः सर्वेऽहसाप्लुताः । दूरे मुक्तिकथा तस्माद् वृथाकामः किमीश्वरः ॥३५॥ मया सृष्टा भविष्यन्ति किं चैते पापिनस्त्विति । भूतभव्यभवज्ञत्वाज्जानात्येव किलेश्वरः ॥३६॥ इति जानन्नपीशस्तान्सृजत्येव यदा तदा । जीवोत्पादकता तस्य कथं स्यान्मुक्तिदित्सया ॥३७॥ सर्व चोत्पत्तिमद्वस्तु नियमेनान्तवन्मतम् । जीवाश्चोत्पत्तिमन्तश्चेद्भवेयु शर्मिणः ॥३८॥ कार्यासामान्यहेतोरप्यायः कार्यत्वमिष्यते । जीवासामान्यहेतौ स्यात्तत ईशेऽप्यनित्यता ॥३९॥ यदि नित्यस्थिति भवेत्कार्यासामान्यकारणम् । कार्यं सदा प्रसज्येत ततोऽनित्यं तदुच्यते ॥४॥ एवं बहुविधा दोषा जीवोत्पत्तिमते स्थिताः । निसर्गात्पौरुषी बुद्धिः सूक्ष्मार्थेषु हि मुह्यति ॥४२॥ वयं तु कर्मणा देहो देहात्कर्मेत्यनादिनीम् । बीजाङ्करवदिच्छामः कर्मदेहपरम्पराम् ॥४२॥ यद्यत्करोति चेशस्तज्जीवकर्मफलाप्तये । यस्य यस्य यथा कर्म न्याय्यं तस्य तथा फलम् ॥४३॥ अत एवास्ति यःप्रोक्तःसंग्रामः कृष्णशूलिनोः। सोऽपि जीवादृष्टवशात्तद्वज्जयपराजयौ ॥४४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com