________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः २
सद्यःसृष्टेषु जीवेषु नाहःसंभावनाव्यपि । न चांहोवासना वापि कुतो हीशस्तथा सृजेत्॥२५॥ तेषां स्वर्गाय सृष्टानामीशेनौदार्यतो नृणाम् । मध्ये मनुष्यभावस्य न पश्यामः प्रयोजनम् ॥२६॥ दातुं किमेष सर्वेभ्योऽशक्नुवन् स्वर्गमीश्वरः। मध्ये मनुष्यतां प्राप्य कुर्युरेन इतीच्छति ॥२७॥ बाल्य एव प्रमीता ये बाल्याद् भ्रान्तधियश्च ये। तेषां च नरताप्राप्तेर्नतरामर्थ ईक्ष्यते ॥२८॥ सम्यग्विचार्यमाणं चेद्भवतामीदृशं मतम् । सुधियां पुरतो भाति सर्व मुग्धोदितार्थकम् ॥२९॥ किं चेशः कुरुते लोकान्यदि स्वर्गकदित्सया । नृणां धर्म स्वसेवादिमेष कस्मादपेक्षते ॥३०॥ मुक्तिदानविधौ सेवामिच्छतीत्युच्यते यदि । पूर्णकामत्वमीशस्य भवता किं न दूषितम् ॥३१॥ केवलं स्वर्गदानार्थ लोकांश्चेत्सृष्टवान्विभुः । बुद्धिमेषां कुतोऽस्राक्षीद्धर्माधर्मोभयानुगाम् ॥३२॥ धर्माधर्मक्रियास्वेभ्यः स्वातन्त्र्ये च समर्पिते । प्रायेण जायते लोकः सर्वोऽपि निरयातिथिः ॥३३॥ तथा सति नृणां सृष्टिनरकार्थापि सेत्स्यति । स्वातन्त्र्यं नरकायापि स्वर्गायापि हि कल्प्यते॥३४॥ १ 'किमेव'-इ. 'इश्यते'-इ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com