SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अध्यायः २] शास्वतत्त्वविनिर्णयः किं च खष्टोऽवतीर्येह नरानन्धादिकान् बहून् । नेत्राधैर्योजयामास प्रागित्युक्तं भवन्मते ॥१५॥ तदसंभवि यद्येवं भवेत्तीधुनापि ये । लोकास्तस्मिन्सुविश्वस्ताः किं नान्धा नेत्रशालिनः ॥१६॥ प्रागीश्वरे दयासीत्सा किमिदानीं न विद्यते । किं वा प्रियाप्रियकृतं वैषम्यं तत्र वर्तते ॥१७॥ यदीशत्वप्रत्ययार्थं प्राक् चकार तथेश्वरः । किं प्रत्ययं न काङ्क्षन्ते इदानीमपि पूरुषाः ॥१८॥ ये इदानीं भवढमें संदिह्य ध्वस्तमङ्गलाः । तेषां शर्माणि भूयासुरिति किं नेच्छतीश्वरः ॥१९॥ किं च नानादयो जीवाः संमता यद्भवन्मते । किं त्वकस्मादीशसृष्टारतदप्यडा न युज्यते ॥२०॥ ईशः किलैकलस्तिष्ठन्निरानन्दः सुखाप्तये । लोकान् सृष्ट्वा सुखं प्राप दोष एष प्रसन्यते॥२॥ मुक्त्यर्थमसृजच्चेन्न प्राक् सतां सा हि संभवेत् । असतोऽपि समुत्पाद्य किमिच्छन्मोचयेदसौ ॥२२॥ परेषु दुःखमालक्ष्य यः शोकः सा दयोच्यते। असत्सु हि कुतो दुःखं तस्मान्नेह दयाप्युत ॥२३॥ स्वर्गकदित्सया लोका अस्रक्ष्यन्तेश्वरेण चेत् । वृथा मध्ये मनुष्यत्वं नाघास्पदमदास्यत ॥२४॥ १ आ पुस्तकेऽत आरभ्य त्रीणि पत्राणि नष्टानि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy