________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः २
सिद्धान्त एष भवतां स्वशास्त्रपरिकीर्तिते । ईशावतारे खष्टाख्ये विश्वासान्नान्यथा गतिः ॥९॥ यतो नास्ति नरः कोऽपि साधुरप्यघवर्जितः । विश्वासादेव मुच्येतान्यथा दण्ड्य इतीर्यते ॥१०॥ ततोऽज्ञातभवच्छास्त्रा असंख्या ये पुराभवन् । ये च संप्रति वर्तन्ते किं सृष्टा नरकाय ते ॥११॥ तद्धि नूत्नप्रसिद्धित्वादन्यदेशभवैनरैः । ज्ञातमाधुनिकैः स्वल्पैः प्राग्भवैः सुतरां न च ॥१२॥ यतः कदाचिदपि तैर्नाज्ञायि भवतां मतम् । अविश्वसन्तस्ते तस्मान्न तावदपराधिनः ॥१३॥ अनागसोऽपि नरके पात्येरन् प्रभुणा यदि । अन्यायी निघणश्वेशः स्यादतोऽसददो मतम् ॥१४॥
१ आ ई पुस्तकयोरेतदादिश्लोकद्वयस्य स्थाने "ततोऽज्ञातभवच्छ'स्त्रा बहवः खलु ये नराः । उत्पादिताः परेशेन किं स्युनरकगामिनः ॥” इति पाठयुक्त एक एव श्लोकः प्रागासीद्यः पश्चात्संशोध्य अ पुस्तकस्थपाठवत्तत्रापि श्लोकद्वयन परिवर्तितो दृश्यते. २ अस्य श्लोकार्धस्य स्थाने आ इ पुस्तकयोः “अन्यायी निघृणश्चैव कल्पितः स्यात्तदेश्वरः ॥ भवेद्यदि भवच्छास्त्रं सत्याशिंसि चैश्वरम् । तदश्वरेण सर्वेषां नृणां ज्ञेयं कृतं भवेत् ॥” इति पाठः प्रागासीद्यः पश्चात्संशोध्य तत्रापि अ पुस्तकवद्विहितो दृश्यते. ३ अत्र अ पुस्तकस्था टिप्पणी-“यदि हि शास्त्रं विनैव लोकाः श्रेया लभेरननर्थेन च न संबध्येरन् तदा निरर्थः शास्त्राविष्कारः; यदि च नैतदस्ति तदा न प्रमाणं खुष्टशास्त्रम्; प्रमाणत्वे तु खुष्ट शास्त्रस्य तदनुपदिशन्नस्मद्देश्यानथ च
दण्डयन्नन्यायको भवेत्परमेश्वर इत्यभिप्रायः ।" इति. Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com