________________
७८
रेवती-दान-समालोचना
लघु तत्केसरं कासश्वासहिध्ममदात्ययान् ॥ प्रास्यशोषानिल श्लेष्मविबन्धछधरोचकान् । गुल्मादराशःशूलानि मन्दाग्नित्वं च नाशयेत् ॥"
इत्थं मांसशब्दस्य फलगर्भत्वे सिद्धेऽत्र मातुलुङ्ग-फलस्य गर्भ इति तदर्थः ॥ ४८ । ४९ ॥ प्रथमवाक्यस्य फलितार्थःरेवतोपस्कृतं मह्यं, कूष्माण्डफलयुम्कम् । तन्नग्राह्य सदोषत्वा-दित्याह प्रथम जिनः ॥ ५ ॥
रेवत्येति-रेवतीगाथापल्या मह्यं-मदर्थ, कूष्माण्डफलयुग्मकम्-युग्ममेव युग्मकम्-कूष्माण्डाभिधफलयोर्युग्मकं युगलमित्यर्थः । तत्-कूष्माण्डयुगलव्यञ्जनं न ग्राह्यमित्यर्थः । कुतो नेत्याह-सदोषत्वात्-आधाकर्मादिदोषसहितत्वात् । जिनोवर्तमानशासनपतिः श्रीमहावीरः प्रथम-पूर्व प्रथमवाक्येन सिंहानगारं प्रति इत्याह--इत्थममुना प्रकारेण जगादेत्यर्थः । तथाहि"मम अट्ट दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठो भग. १५, १, पृ. ६८६" इत्येतत्प्रथमवाक्यस्य समुदायार्थः ॥ ५० ॥ द्वितीयवाक्यस्य फलितार्थ:गर्भो यो मातुलुङ्गस्य, भूमिकूष्माण्डसंस्कृतः । पर्युषितो गृहे तस्या, स्तमानयेत्यवक् ततः॥५१॥
गर्भ इति-मातुलुङ्गस्य-बीजपूरकाभिधफलस्य । गर्भ:मांसं फलान्तर्गतकोमलविभागः । भूमिकूष्माण्डं-विरालिकाकन्दविशेषः । तेन संस्कृतः संस्कार प्रापितः । पर्युषितो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com