________________
रेवती-दान-समालोचना 'rmmmmmmmmmmmmmmmmmmmmmm
अत्राप्तवाक्यादेव कूष्माण्डे शक्तिहो जायते । किमाप्तवाक्यमिति चेत्, वृत्तिकाराभिमतद्वितीयपक्षवाक्यमेवाप्तवाक्यम् । तथाहि-"अन्येत्वाहुः-कपोतकः--पक्षिविशेषस्तद्वद् ये फले वर्णसाधर्म्यात्ते कपोते--कूष्माण्डे ह्रस्वे कपोते कपोतके ते च ते शरीरे वनस्पतिजीवदेहत्वात् कपोतशरीरे, अथवा कपोतशरीरे इव धूसरवर्णसाधादेव कपोतशरीरे कूष्माण्डफले एव ।"यद्येतावताऽपि न संतोषस्तर्हि कपोतशरीरवर्णसाधादस्तु कूष्माएफले तस्य लक्षणा । लक्षणाया अपि शब्दवृत्तित्वात तयाप्यर्थप्रतीतिसंभवात् । कूष्माण्डस्य गुणा वैद्यकशास्त्रे प्रसिद्धास्तथाहिसुश्रुतसंहितायाम् ३३५ पृष्ठे
"पित्तघ्नं तेषु कूष्माण्डं, बालमध्यं कफावहं । पक्वं लघूष्णं सक्षारं दीपनं बस्तिशोधनम् ॥"
कैयदेवनिघण्टौ ११४ पृष्ठे"कृष्माण्डं शीतलं वृष्यं, स्वादुपाकरसं गुरु । हृद्यं रूक्षं सरं स्यन्दि, श्लेष्मलं वातपित्तजित् । कूष्माण्डशाकं गुरुसन्निपातज्वरामशोफानिलदाहहारि ॥'
कूष्माण्डशाकस्यापि ज्वरदाहहारित्वादत्र कूष्माण्डयुगलस्य रेवत्या शाकं व्यञ्जनं कृतमित्यर्थः फलति ।। ४० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com