________________
५८
रेवती-दान-समालोचना
तथा च वृक्षादौ शरीरशब्दव्यवहारो नानुपपन्नः। वैद्यकशास्खेऽपि वनस्पतेः पत्रपुष्पफलादीनामङ्गत्वप्रतिपादनात्कापोतीशब्देन शरीरशब्दसमासः सार्थकः । द्विशब्दप्रयोगोऽपि संगत इति ॥३९॥
ननु कूष्माण्डफलस्यैव पित्तघ्नत्वेन विशेषतः प्रसिद्धत्वात्तदर्थः किमत्र न संभवतीत्यत आह
वस्तुतस्त्वत्र कूष्माण्डमर्थः सम्यक् प्रतोयते । यथाश्रुतस्य शब्दस्या-सवाक्याच्छक्यताग्रहात् ॥४॥
वस्तुत इतिः-पारावतप्लक्षकापोतीनां पित्तघ्नत्वे दाहन्नत्वे च सिद्धेऽपि जयपुरस्थलक्ष्मीरामप्रभृतीनां वैद्यानामभिप्रायेणास्मिन रोगे कूष्माण्डफलस्याधिकोपयोगित्वं प्रतिभाति । ततो बलवनिश्चितप्रकारान्तरमुच्यते । वस्तुतस्त्विति-तु शब्दो विशेषार्थकः, पूर्वेभ्योऽयं पक्षः विशिष्टतर इत्यर्थः । अत्र अस्मिन्प्रकरणे, यथाश्रुतस्य वर्तमानपुस्तकेषु यथा दृश्यते श्रूयते वा 'दुवे कवोयसरीराओ' एतद्वाक्यस्थस्य 'कवोयशरीर' ( कपोतशरीर ) शब्दस्य कूष्माण्डं-कूष्माण्डफलमित्यर्थः । सम्यक्निर्दोषत्वादुपयोगित्वाच्च सुष्ठुप्रतीयते-विज्ञायते । ननु कपोतशरीरशब्दस्य कूष्माण्डमित्यर्थो न क्वापि कोषे प्रसिद्ध इति कथं तस्मात्तदर्थप्रतीतिरिति चेत्, कोषं विनाऽपि व्याकरणाप्तवाक्यादितः शक्तिमहस्य न्यायशास्त्रप्रसिद्धत्वात्, तदुक्तं सिद्धान्तमुक्तावल्याम्(कारिकावल्याम् ) ८३ पृष्ठे
"शक्तिग्रहं व्याकरणोपमान-कोषाप्तवाक्याद्दयवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com