________________
४२
रेवती-दान-समालोचना
स्यावश्यककर्त्तव्यमस्ति यद्वाधितपक्षो निराकरणीयः प्रमाणपुरस्सरमागमविरुद्धपक्षः खण्डनीयः । अत्र कश्चिच्छङ्कते यद् वृत्तिकारण मांसार्थपक्षः कथं न खण्डितः ? 'श्रयमाणमेवार्थ केचिन्मन्यन्त' इति वाक्येन केषांचिन्मांसार्थपक्षः किमर्थमुपन्यस्तः । यदि पूर्वपक्षरूपेणोपन्यस्तः स्यात्तदा तदाधनं स्वशब्देन किमर्थं न कृतमिति प्रश्नकाराशयः ।।२८।। द्वितीयपक्षोपन्यासः
अन्ये त्वाहुरयं पतः, किमर्थ नैव मण्डितः । योग्यायोग्यविमर्शन, स्वाशयः किं न दर्शितः ॥२६॥
अन्य इतिः--कपोतकः पक्षिविशेषस्तद्वद् ये फले वर्णसाधात्ते कपात कूष्माण्डे हस्बे कपोते कपोतके ते च शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, इत्यादिना वनस्पत्यर्थको द्वितीयपक्ष उपन्यस्तः सोप्यन्येषां न तु स्वस्य । यदि स पक्षोऽपि स्वाभिमतस्तर्हि किमर्थ तन्मण्डनं-स्थापनं न कृतं साधकबाधकप्रमाणैस्तद्योग्यायोग्यत्वपर्यालोचनेन मांसार्थबाधने किमर्थ निजाशयो न प्रकटीकृतः ?॥२९॥
अस्याक्षेपस्य निबन्धलेखकः समाधनं करोतिवच्म्यत्र वृत्तिकारण, यद्यप्युक्तं न शब्दतः । तथापि ज्ञायते तस्याशयः सूक्ष्मनिरीक्षणात् ॥३०॥
वच्मीतिः-पत्र विषयेऽहं किञ्चिद्वीमि-वृत्तिकारेण यद्यपि पूर्वपक्षे वोत्तरपक्षे स्वकीयशब्दैः किञ्चिन्नोक्तम् तथापि वृत्तिकारस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com