________________
३२
रेवती-दान-समालोचना मच्छाइयं वा......" इत्यादयः पिण्डेषणाध्ययनसत्का न मांसाथसाधकत्वेनोपादातुं शक्यन्ते कुतो नेत्याह-यत इति यम्मात्कारणात् श्रागमान्तरैः-मांसादिनिषेधकैः स्थानाङ्गभगवतीनिशीथाद्यागमपाठैः । विरोधात्-बाधितत्वात् । ननु द्वितीयश्रुतस्कन्धपाठरागमान्तरपाठानामेव बाधितत्वमस्तु विनिगमनाविरहादिति चेन्न । आचाराङ्गद्वितीयश्रुतस्कन्धस्य प्रथमश्रुतस्कन्धास्थविरैरुद्धृतत्वेन नियुक्तकारेण बहिरङ्गत्वप्रतिपादनात् । बहिरङ्गविधितोऽन्तरङ्गविधेर्बलीयस्त्वान्मांसादिपाठानां बाधितत्वे विनिगमनासत्वात् । तदस्तित्वम्-तेषां द्वितीयश्रुतस्कन्धगतपिण्डेषणाध्ययनसत्कपाठानामस्तित्वं सद्भावः । चिन्त्यम्-चिन्तनीयम् विचारणीयमस्तीति । बहिरङ्गानां तत्पाठानामस्तित्वेऽपि सन्देहास्पदे ते पाठाः स्वयमस्थिरात्मवन्तः कथं मांसार्थसाधकाः स्युः ? नैव स्युरित्यर्थः ॥ २० ॥
आगमविरोधं प्रदर्य प्रकृतप्रकरण विरोधं दयतेद्रव्यशुद्धेन दानेन, देवायुर्वद्धमेतया । जिननाम च मांसार्थ-करणेऽदो न सम्भवेत् ॥२१॥
द्रव्यशुद्धनेति-रेवतीगाथापल्या सिंहानगाराय यद्रव्यशुद्धं दानं दत्तं तस्य प्रभावेण तया तदानीमेव देवगत्यायुष्यं तीर्थदूरनामकर्म च बद्धमित्युक्तं तत्रैव प्रकरणे स्थानाङ्गसूत्रस्य नवमे स्थाने च । तथाहि-"तएणं तीए रेवतीए गाहावतिणीए तेणं दव्वसुद्धणं दायगसुद्धणं तवस्सिसुद्धेणं तिकरणसुद्धणं पडिगाहगसुद्धणं दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबद्धे।"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com