________________
रेवती-दान-समालोचना
पुनश्चउत्तराध्यायसूत्रेऽपि दर्शितं मांसभोजिनः । फलं दुर्गतिबन्धादि, दुःखदौर्भाग्यदायकम् ॥ १८ ॥
उत्तराध्यायसूत्रे इति-द्वितीयमूलसूत्रे श्रीमदुत्तराध्ययने त्वनेकस्थलेषु मांसाहारकर्तुर्दुःखदारिद्र्यजनकं दुर्गतिबन्धादि फलं भवतीति तत्तस्थले दर्शितम् । तथाहि-पञ्चमाध्ययनस्य नवम्यां गाथायाम्
"हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे। भुञ्जमाणे सुरं मंसं, सेयमेयं ति मन्नड़ ॥५६॥"
सुरामांसभोजिनो बालमरणं भवति न तु पंडितमरणभिति । बोलमरणाच्च दुर्गतिरेवेति दुर्गतिफलकत्वं मांसाहारस्य दर्शितम् । एवं सप्तमाध्ययने
"इथिविसयगिद्धे य, महारम्भपरिग्गहे । भुञ्जमाणे सुरं मंसं, परिवूढे परंदमे ॥ ७ ॥६॥ अयकक्करभोई य, तुंदिले चियलोहिए। आउयं नरए कंखे, जहाएस व एलए ॥ ७॥ ७ ॥"
अत्रापि सुरामांसभोजिनो नरकायुष्यबंधकत्वं विज्ञापितम् । एवमेवैकोनविंशतितमेऽध्ययने
"तुहं पियाई मंसाई, खंडाई सोल्लगाणि य ।
खाविओ विसमंसाई, अग्गिवरणाइंऽणेगसो ॥१९७०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com