________________
२४
रेवती-दान-समालोचना
मन्महावीरस्य तु मोक्षगमनमेव । अथ मांसाहारेण तु नरकगतिः सम्भवति । तदुक्तम् स्थानांगसूत्रचतुर्थस्थाने "चउहिं. ठाणेहिं जीवा जेरइयत्ताए कम्मं पकरेति तं जहा-महारंभाए, महापरिगगहयाए, पंचिंदियवहेणं, कुणिमाहारेणं"। आदि शब्देन भगवत्यौपपातिकसूत्रयोहणमर्थाद्भगवत्यष्टमशतकस्य नवमोद्देशके तथौपपातिकसूत्रे देशनाधिकारेऽप्येवमेवोक्तम् । नैतद्येन केनाप्युक्तमपितु श्रीमज्जिनेश्वरैः । नात्र काचिच्छङ्का अपितु स्पष्टमुक्तमित्यर्थः । एवं च मांसाहारस्य नरकायुष्यहेतुत्वं यैरुक्तं त एवोत्तमपुरुषाः किं मांसाहारं कुर्युः ? नैव कुर्युरित्यर्थः ॥ १६ ॥
किन्च
मांसं निष्पद्यते यत्र, स्थाने तत्र मुनीश्वरैः। अन्नाद्यर्थ न गन्तव्यं, निशोथे तनिषिध्यते ॥ १७ ॥
मांसमिति-मांसाहारनिष्पत्तिस्थानेऽन्यदशनादिकं प्रहीतुं मुनिना न गन्तव्यमिति निशीथसूत्रे नवमोद्देशके निषेधः कृतः । तथाहि-"जे भिक्खू रगण खत्तियाणं जाव भिसित्ताणं मंसक्खायाण वा मच्छखायाण वा छवियक्खायाण वा बहिया निग्गयाण वा असणं पाणं; खाइम, साइमं जाव साइज्जइ" । यद्वस्तुनिष्पत्तिस्थानस्यापि दुष्टत्वं तद्वस्तुदुष्टत्वस्वभावेनोक्तं, तर्हि वस्तुनस्तु का कथा ? अनेन मांमस्याशुद्धत्वं दुष्टत्वं च प्रतिपादितम् ।। १७ ॥ . .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com