________________
१८
रेवती-दान-समालोचना
द्विशिष्टमेव स्यान्न तु सामान्याहारः । वस्तुतस्तु 'मोएइ' इति 'मुन्च' धातोः प्रेरणारूपं बद्धस्य मोचनमेव तदर्थः समीचीनः, कृतं प्रसंगेन । रेवत्या प्रतिलाभितं भैषज्यं गृहीत्वा मुनिमहावीरान्तिके गतः । तेन समानीतं शुद्धद्रव्यरूपं भैषज्यं दर्शितम् । भुक्तं चानासक्त्या प्रभुणा। तेन च शरीरे पूर्णमारोग्यं समजनि तदुक्तम्-"से विपुले रोगायंके खिप्पामेव उवसमं पत्ते हटे जाए अारोगे बलियसरीरे तुट्ठा समणा, तुट्ठाओ समणीओ, तुट्ठा सावया, तुद्वानो सावियाओ, तुट्ठा देवा, तुट्टाओ देवीओ, सदेवमणुयासुरे लोए तुडे हटे जाए समणे भगवं महावीर"-भग० १५; १, पृ० ६८७ ।। १२ ।।
॥ इति संक्षिप्तकथानकार्थः ।।
अथार्थमीमांसा। शरीरमांसमार्जारकृतकपोतकुक्कुटाः । षडेते द्वयर्थकाःशब्दा, अर्हन्ति चिन्तनीयताम् ॥१३॥
शरीर इति--'दुवे कवोयसरीरा' इति वाक्ये कपोतशरीरशब्दो, 'मज्जारकडए' इति विशेषणवाक्ये मार्जारकृतकशब्दो, 'कुक्कुडमंसए' इत्यत्र कुक मुटमांसकशब्दौ । इत्थं त्रिषु वाक्येषु द्वौ द्वौ शब्दो शंकास्पदो स्तः। द्वयर्थकत्वात् । शरीरशब्दस्य
प्राणिशरीरवनस्पतिशोरेऽपि वर्तमानत्वात् , मांसशब्दस्य प्राधिShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com