________________
रेवती-दान-समालोचना
मानय, येन भैषज्येन सद्य एव ममामयो विनश्येत् । एतत्पद्यद्वयस्य भावार्थोऽग्रे विशदीभविष्यति, अत्र तु शब्दार्थमात्रमुक्तम् ! मूलपाठस्तु-"अस्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमसए तमाहराहि एएणं अट्ठो"- भग० १५,१, पृ० ६८६)॥११॥
आज्ञायां सत्यां यत्कृतं तदाहकृतं तथैव सिंहेन रेवतीपतिलाभितम् । शुद्धं द्रव्यं समानीतं, तेन शान्तिरजायत ॥ १२ ॥
कृतमिति-सिंहानगारः प्रमुदितः सन्नीर्यासमित्या रेवतीगृह गतः । रेवती विनयभक्तिपूर्वकमभिवंद्य मुनिं पृष्टवती 'महानुभाव ! किमागमनप्रयोजनम् ?' मुनिना श्रीमद्वीरोक्तं, सर्व वृत्तं निवेदितम् । गाथापत्नी साश्चर्य पप्रच्छ-कथमेतन्मम रहस्यं ज्ञातं भवता ? तेनोक्तं,नाहं स्वयं जानामि किन्तु मम धर्माचार्यप्रज्ञापनेन । सा सहर्ष भक्तगृहं जगाम । तदुक्तं-"जेणेव भत्तघरे तेणेव उवा० पत्तगं मोएति पत्तगं मोएत्ता जेणेव सीहे अणगारे तेणेव उवागच्छइ २ तासीहस्स अणगारस्स पडिग्गहगंसितं सव्वं सम्मं निस्सिरति" (भग० १५; १, पृ. ६८७)।
ज्ञास्यन्ति पाठका अनेन पाठेन यद्रेवत्या दीयते स नाहारोऽपि तु भैषज्यमेव । यद्याहारः स्यात्तद्वद्धपात्रे न स्याद्, आहारस्तु मुक्ते पिहिते पात्रे स्याद्, अत्र तु 'पत्चगं मोएति'- पात्रक मोचयतीत्यर्थः, बद्धस्यैव मोचनसंभवो, न तु पिहितस्य । वृत्तिकारेण तु 'पात्रकं पिठरकाविशेषं मुञ्चति-सिक्कके उपरिकृतं
सत्तस्मादवतारयतीत्यर्थः' कृतः सिकके स्थापितमपि वस्तु किन्चिShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com