________________
रेवती-दान-समालोचना
लोकापवादजन्यं मुनेदुःखम् । अस्य प्रवादस्य मुनिजनष्वपि कीदृशी परिणतिर्जातति दर्शयतिस्मृतेरस्य प्रवादस्य, चिचे चिन्ताव्यथाऽभवत् । सिंहाभिधानगारस्य, ध्यानस्थस्य वनान्तिके ॥ ५ ॥
स्मृतेरिति-मेण्ढिकग्रामस्येशानकोणे विद्यमानस्य शालकोष्ठकाख्योद्यानस्य समीपे मालुकाकच्छकनाम वनमासीत् । तत्र श्रीवीरप्रभुः सपरिवारः समवसृतः । सिंहाभिधानस्तच्छिष्यो मुनिगणान्वितो वनस्यैकान्तप्रदेशे ध्यानमग्नोऽभवत्तदानीं पूर्व श्रुतस्य लोकप्रवादस्य स्मृतिर्जाता, तया च मनसि महदुःखं समजनि । व्यवहार इव धर्मेऽपि लोकापवादो धर्मिजनहृदयं परितापयत्येव । अत एवोक्तं-"यदपि शुद्धं लोकविरुद्धं, नाकरणीयं नाचरणीयम् ।" तदुक्तम्-"तेणं कालेणं २ समणस्स भगवत्रो महावीरस्स अंतेवासी सीहे नामं अणगारे पगइभदए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछ?णं अनिक्खित्तेणं २ तवोकम्मेणं उर्दु बाहा जाव विहरति, तए णं तस्स सीहस्स अणगारस्स माणंतरियाए वट्टमाणस्स अयमेयारूवे जाव समुप्पज्जित्था एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउ. भूए उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संति य णं अन्नतित्थिया छउमत्थे चेव कालगए, इमेणं, एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे पायावणभूमिओ पक्षोरुहइ"-(भग० १५,१, पृ० ६८६)॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com