________________
रेवती-दान-समालोचना
पित्तति-ततस्तेजोलेश्यासामीप्यात्पित्तज्वरो, वर्चसि लोहितं, विपुलो दाहश्चेत्येतत्रिविधरोगोद्भवः श्रीवीरस्य देहेऽजायत । त्रिविधोऽपि दुस्सह इति तदुक्तं भगवत्याम्-"तए णं समणस्स भगवो महावीरस्स सरीरगंसि विपुले रोगायंके पाउन्भूए उज्जले जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवक्तीए यावि विहरइ अवियाइं लोहियवच्चाइंपि पकरेइ"-(भग० १५,१ पृ० ६८५) ॥३॥
जनताप्रवादः।
अनेन जनसमुदाये यः प्रवादोऽभूत्तमाहगोशालेन पराभूतो, वीरः पित्तज्वरादितः । मृत्युमाप्स्यति षण्मास्यां, छमस्थःप्रसूता कथा ॥४॥
गोशालेनेति-लोके ईदृशी वार्ता प्रसृता यन्महावीरस्वामिगोशालकयोर्विवादे गोशालको विजेता महावीरस्वामी च पराजितः । गोशालकस्य तपस्तेजसा परिभूयमानः श्रीवीरः पित्तज्वरव्याप्तशरीरो दाहापक्रान्त्या छद्मस्थः सन् मासषट्कान्ते कालधर्म प्राप्स्यति । मन्यते गोशालोक्तिः सत्या भविष्यतीति प्रवादो लोकापवादरूपो जातः । तदुक्तम्-"एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्सति"
(भग.० १५,१, पृ०.६८५).॥ ४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com