________________
रेवती-दान-समालोचना ~~~~~~~~ महावीरस्वाम्यर्थ सिंहानगाराय भैषज्यं प्रतिलाभितम् । तया दत्तं यहानं तस्याः पदार्थस्तद्विषये केषांचिच्छ का विद्यते, यत्तहानवस्तु मांसमासीदन्ये वदन्ति तद्वस्तु वनस्पतिफलादिजन्यमौषधमासीदत्र पक्षद्वये किं यथातथमिति विशेषेण पर्यालोचनपूर्वकं प्रमाणपुरस्सरं चिन्त्यते विचार्यत इत्यर्थः ॥ १ ॥
वोरस्य रोगोत्पत्तिः। रेवतीदानस्य प्रयोजनं महावीरस्वामिनः शरीरे रोगोत्पत्तिः । तस्याश्च निमित्तं वर्धमानस्वामिनं प्रति गाशालकेन प्रक्षिप्ता तेजोलेश्या तद्दर्शनायाह
गोशालकेन विक्षिप्ता, तेजोलेश्या जिनं प्रति । यद्यपि नास्पर्शदीर, तथाप्यभूद्वयथाकरी ॥२॥
गोशालकेनेति-अस्य विस्तृतार्थस्तु भगवतीसूत्रे पञ्चदशशतके । अत्र तु सम्बन्धमात्रदर्शकः संक्षितार्थः। गोशालकप्रक्षिप्ततेजोलेश्याया महावीरस्वामिशरीरेण सह संपर्को नाभूत, शरीरसमीपप्रदेशादेव तस्याः परावृत्तत्वात् । तथापि सामीप्येनाघातजनकत्वात्सा तेजोलेश्या रोगोत्पत्तिजनकाऽभवदित्यर्थः ॥ २॥
रोगस्वरूपम् । महावीरस्वामिनः कीदृशो रोगोऽजनीत्याह
पित्तज्वरस्ततो जातस्तथा वर्चसि लोहितम् । ___ असह्यो विषुलो दाहो, देहे वीरस्य चाभवत्॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com