SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ इति बहुवचनार्थः प्रतिपत्तव्यः, ते यथा नाम गन्धा अभिनिगच्छन्तीति सम्बन्धः, काष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां, वाशब्दः सर्वत्रापि समुच्चये, इह एकस्य पुटस्य प्रायो न तादृशो गन्ध आयाति, द्रव्यस्याल्पत्वात्, ततो बहुवचनं, तगरमपि गन्धद्रव्यं, एलाः प्रतीताः, चोयं-गन्धद्रव्यं चम्पकदमनककुङ्कमचन्दनोशीरमरुकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलीनवमालिकागुरुलवङ्गकुसुमवासकर्पूराणि प्रतीतानि, नवरमुशीरं-वीरणीमूलं स्नानमल्लिका-स्नानयोग्यो मल्लिकाविशेषः एतेषां पुटानामनुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वाति सति उद्भिद्यमानानामुद्धाट्यमानानां वाशब्दः सर्वत्रापि समुच्चये 'कुट्टिजमाणाण वा' इति इह पुटैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठपुटादीनीत्युच्यन्ते तेषां कुटयमानानाम्-उदूखले खुद्यमानानां 'भंजिजमाणाण वा' इति श्लक्ष्णखण्डीक्रियमाणानां' एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणा. मवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनां, उकिरिजमाणाण वा' इति क्षुरिकादिभिः कोष्टादिपुटानां कोष्टादिद्रव्याणां वा उत्कीर्यमाणानां 'विकिरिजमाणाण वा' इति विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां 'परिभुजमाणाण वा' परिभोगाय उपयुज्यमानानां, क्वचित् 'परिभाइजमाणाण वा' इति पाठस्तत्र परिभाइजमाणानांपार्श्ववर्तिभ्यो मनाग् दीयमानानां, 'भंडाओ भंडं साहरिजमाणाण वा' इति भाण्डात्-स्थानादेकस्मादन्यद् भाण्डं-भाजनान्तरं संहियमाणानां उदाराः-स्फारास्ते चामनोज्ञा अपि स्युरत आह मनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह मनोहरा:-मनो हरन्ति-आत्मवशं नयन्तीति मनोहराः, इतस्ततो विप्रकीर्यमाणेन मनोहरत्वं, कुतः ? इत्याह घ्राणमनोनिवृतिShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy