________________
तोरणानामुपरि बहवः कृष्णचामरयुक्ता ध्वजाः कृष्णचामर. ध्वजाः, एवं बहवो नीलचामरध्वजाः, लोहितचामरध्वजाः, हरितचामरध्वजाः, शुक्लचामरध्वजाः, कथम्भूता एते सर्वेऽ. पीत्यत आह -अच्छा-आकाशस्फटिकवदतिनिर्मलाः, श्लक्ष्णाःश्लक्ष्णपुद्गलस्कन्धनिर्मापिताः ‘रुप्पपट्टा' इति रूप्यो-रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'वइरदंडा' इति वज्रो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्रदण्डाः, तथा जल जानामिव-जलजकुसुमानां पद्मादीनामिवा. भलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स जलजामलगन्धः स विद्यते येषां ते जलजामलगन्धिकाः, अत एव सुरम्याः 'प्रासादीया' इत्यादिविशेषणचतुष्टयं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां तोरणानामुपरि बहूनि छत्रातिच्छत्राणि-छत्रात् -लोकप्रसिद्धात् एकसङ्ख्याकात् अतिशायीनि छत्राणि उपर्यधोभावेन द्विसङ्ख्याकानि त्रिसङ्ख्याकानि वा छत्रातिच्छत्राणि, बाह्यपताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्ता. रेण च पताकाः पताकातिपताकाः, बहूनि घण्टायुगलानि, बहूनि चामरयुगलानि, बहव उत्पलहस्ताः-उत्पलाख्यजलजकुसुमसमू. हविशेषाः, एवं बहवः पद्महस्तकाः नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः शतपत्रहस्तकाः, सहस्रपत्रहस्तकाः, पद्मादिविभागव्याख्यानं प्राग्वत् , एते च छत्रातिच्छत्रादयः सर्वेऽपि रत्नमया अच्छा-आकाशस्फटिकवदतिनिर्मला यावत्करणात् 'सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणिजा अभिरुवा' इति परिग्रहः । 'तस्स णमि 'त्यादि, तस्स गमिति पूर्ववत् दिन्यस्य यानविमानस्य अन्तः-मध्ये बहुसमः सन् रमणीयो बहुरमणीयो भूमिभागः प्राप्तः, किविशिष्ट इत्याह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com