________________
णामगोयस्सवि सवणयाए किमंग पुण अहिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए ? एगस्तवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए? तं गच्छामि णं समणं भगवं महावीरं वदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं चेइयं देवयं पज्जुवासामि, एयं मे पेच्चा हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सइ तिकट्ट एवं संपेहेइ, २त्ता आभिओगे देवे सदावेइ २ त्ता एवं क्यासी। (सू० ६) एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जंबूहीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिाण्हत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ।
'सेयं खलु' इत्यादि, श्रेयः 'खलु' निश्चितं 'मे' मम श्रमणं भगवन्तं महावीरं वन्दितुं कायेन मनसा च प्रणन्तुं सत्कारयितुं कुसुमाञ्जलिमोचनेन पूजयितुं सन्मानयितुम्उचितप्रतिपत्तिभिराराधयितुं कल्याणं कल्याणकारित्वात् मङ्गलं दुरितोपशमकारित्वात् दैवतं-देवं त्रैलोक्याधिपतित्वात् चैत्यं सुप्रशस्तमनोहेतुत्वात् पर्युपासितुं-सेवितुम् ' इतिकृत्वा' इतिहेतोः 'एवं' यथा वक्ष्यमाणं तथा 'सम्प्रेक्षते' बुद्ध्या परिभावयति, संप्रेक्ष्य च आभियोगिकान्-आभिमुख्येन योजनं अभियोगः-प्रेष्यकर्मसु व्यापार्यमाणत्वं अभियोगेन जीवन्तीत्याभियोगिकाः 'वेतनादेर्जीवन्तीति इकण्प्रत्ययः, आभियो. मिकाः-स्वकर्मकरास्तान् शब्दापयति-आकारयति शब्दापयित्वा च तेषां सम्मुखमेवमवादीत् एवं खलु देवानां प्रियाः इत्यादि सुगम, नवरं देवानां प्रियाः-ऋजवः प्राज्ञाः ।
१ वंदिउं नमंसिउं सकारेउं सम्माणेउं (कृत्तिः) २ पज्जुवासिउं (वृत्तिः)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com