SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ नन्दितः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय २ मीलने कर्मधारयः, 'पीइमणे इति' प्रीतिर्मनसि यस्यासौ प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् 'परमसोमणस्सिए' इति शोभनं मनो यस्य स सुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च परमसौमनस्यं तत्सञ्जातमस्येति परमसौमनस्यितः, एतदेव व्यक्तीकुर्वनाह-'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पत्विस्तारयायि हृदयं यस्य स हर्षवशविसर्पद्धृदयः, हर्षवशादेव 'विकसियवरकमलनयणे' विकसिते वरकमलवत् नयने यस्य स तथा, हर्षवशादेव शरीरोद्धर्षेण 'पयलियवरकडगतुडियकेउरमउडकुंडले'ति प्रचलितानि वराणि कटकानि-कलाधिकाभरणानि त्रुटितानि-बाहुरक्षकाः, केउराणि-बाह्राभरणविशेष. रूपाणि मुकुटो-मौलिभूषणं कुण्डले-कर्णाभरणे यस्य स प्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डलः, तथा हारेण विराजमानेन रचितं-शोभितं वक्षो यस्य स हारविराजमानरचितवक्षाः, ततः पूर्वपदेन कर्मधारयः समासः, तथा प्रलम्पते इति प्रलम्बः-पदकस्तं प्रलम्बमान-आभरणविशेषं घोलन्ति च भूषणानि धरतीति प्रलम्बप्रलम्बमानघोलद्भषणधरः, सूत्रे च प्रलम्बमानपदस्य विशेष्यात्परतो निपातः प्राकृतत्वात् , हर्षवशादेव 'ससंभम' संभ्रम इह विवक्षितक्रियाया बहुमानपूर्विका प्रवृत्तिः सह सम्भ्रमो यस्य वन्दनस्य नमनस्य वा तत्ससम्भ्रमं, क्रियाविशेषणमेतत्, त्वरितं-शीघ्रं चपलं-सम्भ्रमवशादेव व्याकुलं यथा भवत्येवं सुरवरो-देववरो यावत्करणात् ‘सीहासणाओ अब्भुटेइ अब्भुद्वित्ता पायपीढाओ पञ्चोरुहइ २ त्ता पाउयाओ ओमुयइ ओमुयइत्ता तित्थयराभिमुहे सत्तकृपयाई अणुगच्छइ अणुगच्छित्ता वामं जाणुं अंचेइ [ उत्पाटयति] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy