________________
आलोके च जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्र माणकचैत्यस्तम्भो यत्र वज्रमया गोलवृत्ताः समुद्काः तत्रागत्य समुद्कान् गृह्णाति गृहीत्वा विघाटयति, विघाटय च लोमहस्तकं परामृश्य तेन प्रमाज्योंदकधारया अभ्युक्ष्य गोशीर्षचन्दनेनानु. लिम्पति, ततः प्रधानैर्गधमाल्यैरर्चयति धूपं वहति, तदनन्तरं भूयोऽपि वज्रमयेषु गोलवृत्तसमुद्गेषु प्रतिनिक्षिपति, प्रतिनि. क्षिप्य तान् वज्रमयान् गोलवृत्तसमुद्कान् स्वस्थाने प्रतिनिक्षिः पति, तेषु पुष्पगन्धमाल्यवस्त्राभरणानि चारोपयति, ततो लोमहस्तकेन माणकचैत्यस्तम्भं प्रमार्योदकधारयाभ्युक्षणचन्दनचर्चापुष्पाद्यारोपणं धूपदानं च करोति, कृत्वा च सिंहासनप्रदेशे समागत्य मणिपीठिकायाः सिंहासनस्य च लोमहस्तकेन प्रमार्जनादिरूपां पूर्ववदर्च निकां करोति, कृत्वा यत्र मणिपीठिका यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च द्वारवदर्च निकां करोति, तत उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजे पूजां करोति, ततो यत्र चोप्पालको नाम प्रहरणकोशस्तत्र समागत्य लोमहस्तकेन परिघरत्नप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति, प्रमार्योदकधारयाभ्युक्षणं चंदनचर्ची पुष्पाद्यारोपणं धूपदानं च करोति, ततः सभायाः सुधर्माया बहुमध्यदेश. भागेऽर्च निकां पूर्ववत् करोति, कृत्वा सुधर्मायाः सभाया दक्षिणद्वारे समागत्य तस्य अर्चनिकां पूर्ववत् कुरुते, ततो दक्षिणद्वारेण विनिर्गच्छति, इत ऊर्ध्व यथैव सिद्धायतनान्निकामतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशतः उत्तरनन्दापुष्करिण्यादिका उत्तरद्वारान्ता ततो द्वितीयद्वारान्निष्कामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्यता सैव सुधर्मायां सभायामप्यन्यूनातिरिक्ता वक्तव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वा
उपपातसभां पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com