SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २१७ -सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया गात्राणि रुक्षयंति, 'नासानोसासवायवोझ' मिति नासिकानिश्वासवातवाहमनेन तत्श्लक्षणतामाह, 'चक्खुहर' मिति चक्षुहरति -आत्मवशं नयति विशिष्टरूपातिशयकलितत्वात् इति चक्षुर्हरं 'वण्णफरिसजुत्त' मिति वर्णन स्पर्शन चातिशयेनेति गम्यते युक्तं वर्णस्पर्शयुक्तं, ' हयलालापेलवाइरेग' मिति हयलालाअश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेक 'नाम नाम्नैकार्थे समासो वहुल 'मिति समासः, अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, धवलं-श्वेतं, तथा कनकेन खचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोर्वानलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाशस्फटिकं नामातिस्वच्छः स्फटिकविशेषस्तत्समप्रभं दिव्यं देवदूप्ययुगलं 'नियंसेइ' परिधत्ते परिधाय हारादीन्याभरणानि पिनाति, तत्र हार:अष्टादशसरिकः अर्धहारो-नवसरिकः एकावलो-विचित्रमणिका मुक्तावली-मुक्ताफलमयी रत्नावली-रत्नमयमणिकात्मिका प्रालम्बः-तपनोयमयो विचित्रमणिरत्नभक्तिचित्र आत्मनः प्रमाणेन सुप्रमाण आमरणविशेषः, कटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षिकाः अङ्गदानि-बाह्वाभरणविशेषाः दशमुद्रिकानन्तकं हस्ताङ्गलिसंबन्धि मुद्रिकादशकं कुण्डले-कर्णाभरणे 'चूडामणि' मिति चूडामणि म सकलपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासो निःशेषामङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः 'चित्तरयणसंकर्ड मउडमिति' चित्राणि नानाप्रकाराणि यानि रत्नानि तैः संकटश्चित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः, तं' दिव्वं सुमणदामं ' ति पुष्पमाला, 'गंथिमे' त्यादि, ग्रन्थिम-ग्रन्थनं ग्रन्थस्तेन निर्वत्तं ग्रन्थिमं 'भावादिमः प्रत्ययः' यत्सूत्रादिना ग्रन्थ्यते तद्गन्थिममिति भावः, पूरिमं यत् ग्रथितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy