SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० जोयणं च उड़ उच्चत्तेणं एकतीसं जोयणाई कोसं च विखंभेणं वण्णओ उल्लोओ सीहासणं सपरिवार पासायउवरिं अट्ठमंगलगा झया छत्ताइछत्ता ॥ (मु० ३५) ॥ तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः, स च पञ्च योज. नशतान्यूर्ध्वमुच्चैस्त्वेन अर्धतृतीयानि योजनशतानि विष्कम्भतः 'अब्भुग्गयमूसियपहसियाविवे'त्यादि तस्य वर्णन मध्ये भूमिभागवर्णनमुल्लोकवर्णनं द्वारबहिःस्थितप्रासादवद्भावनीयं, तस्य च मूलप्रासादावतंसकस्य बहुमध्ये देशभागेऽत्र महतो एका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तीसे ण' मित्यादि, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं प्रज्ञप्तं, तस्य सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि, ‘से ण' मित्यादि, स मूलप्रसादावतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणैः सर्वतः समन्ततः परिक्षिप्तः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-अर्धतृतीयानि योजनशतान्यू र्ध्वमुच्चैस्त्वेन, पञ्चविंशं योजनशतं विष्कम्भेन, तेषामपि 'अब्भुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्यभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत्, तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं २ सिंहासनं प्रज्ञप्तं, तेषां च सिंहा. सनानां वर्णनं प्राग्वत्, नवरमत्र शेषाणि परिवारभूतानि भद्रासनानि वक्तव्यानि, 'ते णं' पासायवडेंसया' इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैः ‘तयद्धच्चत्तपमाणमेत्ताह' तेषां मूलप्रासादावतंसकपरिवारभूतानां प्रासाShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy