________________
१७१
ग्वत्, भूमिवर्णनं उल्लोकवर्णनं सपरिवारं न प्राग्वत्, 'तत्थ ण' मित्यादि, तत्र तेषु वनखण्डेषु प्रत्येकमेकैकदिग्भावेन चत्वारो देवा महर्द्धिका यावत्करणात् ' महज्जुइया महाबला महासुक्खा महाणुभावा' इति परिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-' असोए ' इत्यादि, अशोकवने अशोकः सप्तपर्णवने सप्तपर्णः चंपकवने चंपकश्चतवने चूतः ' । ' ते ण' मित्यादि, ते अशोकादयो देवाः स्वकीयस्य वनखण्डस्य स्वकीयस्य प्रासादावतंसकस्य, सूत्रे बहुवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽपि भवतीति, स्वस्वकीयानां सामानिकदेवानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां स्वासां परिषदां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेषामात्मरक्षाणां ' आहेवच्चं पोरेवच्चं ' इत्यादि प्राग्वत्, 'सूरियाभस्स ण ' मित्यादि, सूर्याभस्य विमानस्यान्तः - मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य ' से जहानामए आलिंगपुक्खरेइ वा ' इत्यादि यानविमान इव वर्णनं तावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र सुमहत् एकं उपकारिकालयनं प्रज्ञप्तं, विमानाधिपतिसत्कप्रासादावतंसकादीन् उपकरोति - उपष्टनात्युपकारिका, विमानाधिपतिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र त्वियमुपकार्योपकारिकेति प्रसिद्धा, उक्तं च- " गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिके "ति, उपकारिकालयनमिव उपकारिकालयनं, तत् एकं योजनशतसहस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके अष्टाविंशं धनुः शतं त्रयोदश अङ्गलान्यर्धाङ्गलं परिक्षेपतः, इदं च परिक्षेपप्रमाणं जंबूद्वीपपरिक्षेपप्रमाणवत् क्षेत्रसमासटीकातः परिभावनीयम् ॥
से गाए पमवरवेइयाए एगेण य वणसंडेण य सव्व
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat