________________
१५५ ततः कृष्णोऽवभासो येषां ते कृष्णावभासा इति, तथा हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद्वनखण्डा अपि नीलाः, न चैतदुपचारमात्रेणोच्यते किन्तु तथावभासात्, तथा चाह नीलावभासाः, समासः प्राग्वत्, यौवने तान्येव पत्राणि किसलयत्वं रक्तत्वं चातिक्रान्तानि ईषत् हरितालाभानि पाण्डूनि सन्ति हरितानीति व्यपदिश्यन्ते, ततस्तद्योगात् वनखण्डा अपि हरिताः, न चैतदुपचारमात्रादुच्यते, किन्तु तथाप्रतिभासात्, तथा चाह-हरितावभासाः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगाद्वनखण्डा अपि शीता इत्युक्ताः, न च न ते गुणतस्तथा किन्तु तथैव, तथा चाह-शोतावभासाः, अधोभागवतिनां वैमानिकदेवानां देवीनां तद्योगशीतवातसंस्पर्शतः ते शीता वनखण्डा अवभासन्ते इति, तथा एते कृष्णनीलहरितवर्णा यथा स्वस्मिन् स्वरूपे अत्यक्ते स्निग्धा भण्यन्ते तीव्राश्च ततः तद्योगात् वनखण्डा अपि स्निग्धाः तीव्राश्च इत्युक्ताः, न चैतदुपचारमात्रं किन्तु तथावभासोऽप्यस्ति तत उक्तंस्निग्धावभासास्तीवावभासा इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रो. पदर्शनेन यथावस्थितं वस्तुस्वरूपं वर्णितं भवति किन्तु तथास्वरूपप्रतिपादनेन, ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-'किण्हो किण्हच्छाया' इत्यादि, कृष्णा वनखण्डाः, कुत इत्याह-कृष्णच्छायाः 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनात् हेतौ प्रथमा, ततोऽयमर्थः-यस्मात् कृष्णा छाया-आकारः सर्वाविसंवादितया तेषां तस्मात् कृष्णाः, एतदुक्तं भवतिसर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रा. न्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्त्व. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com