________________
१५३
रूपैः १४ स्फटिकैरिति परिग्रहः १५ षोडशे रिहैः १६ 'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुपरि अष्टौ अष्टौ स्वस्तिकादीनि मङ्गलकानि इत्यादि यानविमानतोरणवत्तावद्वाच्यं यावद् बहवः सहस्रपत्रहस्तका इति, अत ऊर्ध्वं केषुचित् पुस्तकान्तरेष्वेवं पाठः 'एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवतीति मक्खाय' मिति सुगमं 'सूरियास्स ण' मित्यादि सूरियाभस्स विमानस्य चतुर्दिशं चतस्रो दिशः समाहृताश्चतुर्दिक् तस्मिन् चतुर्दिशि चतसृषु दिक्षु पञ्च पञ्च योजनशतानि 'अबाहाए' इति बाधनं बाधा आकमणमित्यर्थः न बाधा अबाधा - अनाक्रमणं तस्यामबाधायां कृवेति गम्यते, अपान्तरालं मुक्त्वक्तेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहो वनखण्डः, उक्तञ्च जीवाभिगमचूर्णो 'अणेगजाईहिं उत्तमेहिं रुक्खेहिं वणसंडे' इति, 'तद्यथे' त्यादिना तानेव वनखण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधानं वनमशोकवनमेवं सप्तपर्णवनं चम्पकवनं चतवनमपि भावनीयं, 'पुरत्थिमेण' मित्यादि पाठसिद्धं, अत्र संग्रहणिगाथा - 'पुव्वेण असोगवणं दाहिणओ होइ सत्तिवण्णवणं । अवरेणं चंपकवणं चयवणं उत्तरे पासे ॥ १ ॥ ' 'ते' मित्यादि, ते च वनखण्डाः सातिरेकानि अर्धत्रयोदशानिसार्धानि द्वादश योजनशतसहस्राणि ( आयमतः ) पञ्च योजनशतानि विष्कम्भतः प्रत्येकं २ प्राकारपरिक्षिप्ताः पुनः कथंभूतास्ते वनखण्डा ? इत्याह- किण्हा किण्होभासा जाव पडिमोयणा सुरम्मा' इति यावत्करणादेवं परिपूर्णः पाठः सूचितोनीला नीलोभासा हरिया हरियो भासा सोया सीयो भासा निद्वा निद्धभासा तिव्वा तिव्वोभासा किण्हा किण्हच्छाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया निद्धा निद्धच्छाया घणकडियकडिगच्छाया रम्मा महामेह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
..
,