SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १४३ हरियालसमुग्गा हिंगुल से मुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ॥ सू० २८ ॥ 'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडश षोडश जालकटकाः प्रतप्ताः, जालकटको जालककीर्णो रम्यसंस्थानः प्रदेशविशेषः ते च जालकटकाः 'सव्वरयणामया अच्छा सण्हा जाव पडिरुवा' इति प्राग्वत् । 'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोद्विधातो नैषेधिक्यां षोडश घण्टापरिपाटयः प्रज्ञप्ताः, तासां च घण्टानामयमेतद्रूपो वर्णावासो - वर्णक निवेशः प्रज्ञप्तः, तद्यथा - जम्बूनदमय्यो घण्टो वज्रमय्यो लालाः नानामणिमया घण्टापावः तपनीयमय्यः शृङ्खला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः 'ताओ णं घण्टाओ' इत्यादि, ताश्च घण्टा ओघेन प्रवाहेण स्वरो यासां ता ओघस्वरा मेघस्येवातिदीर्घः स्वरो यासां ता मेघस्वराः हंसस्येव मधुरः स्वरो यासां ता हंसस्वराः, एवं क्रौञ्चस्वराः सिंहस्येव च प्रभूतदेशव्यापी स्वरो यासां ताः सिंहस्वराः एवं दुन्दुभिस्वरा द्वादशविधतूर्यसङ्घातो नन्दिः नन्दिस्वराः नन्दिवत् घोषो-हादो यासां ता नन्दिघोषाः मञ्जू:प्रियः स्वरो यासां ता मञ्जुस्वरा, एवं मञ्जुघोषाः, किं बहुना ? सुस्वराः सुस्वरघोषाः, 'उरालेण' मित्यादि प्राग्वत् ॥ 'तेसि ण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः द्विधातो नैषेधिक्यां षोडश २ वनमालापरिपाटयः प्रज्ञप्ताः, ताश्च वनमाला नानाद्रुमाणां नानालतानां च यानि किसलयानि ये च पल्लवास्तैः समाकुलाः - सम्मिश्राः ' छप्पयपरिभुजमाणा सोभन्तसस्सिरीया' इति षट्पदैः परिभुज्यमानाः सत्यः शोभ मानाः षट्पदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः 'पा साईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि णं दाराण' मि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy