________________
संसाराब्धितितीर्षवे निजगुणानादित्सवे साधवे ।
पंन्यासप्रवराय भावविजयायाहं नमामि ध्रुवम् ॥ ४॥
यस्माद् बोधमयीं महोदयवतीं धर्मामृतस्यन्दिनीम् । संसारार्णवतारणैकतरणीं दुःखौघप्रध्वंसिनीम् ॥ जीवानन्दविधायिनीं भवमृतिरोगापहन्त्री गिरम् । श्रुत्वा शान्तरसप्रदां भविगणाः शान्ति परां लेभिरे ||५|| संसृत्यर्णवदुःखचक्रमकरैः संत्रस्यमाना जनाः ।
हस्तालम्बनमाप्य पोतसदृशं भव्यावतंसा बुधाः ॥ आत्मोत्थानपथप्रवृत्तमहतो विघ्नोरगात् पारगाः । यस्योदग्रयशोवितानमधुना विस्तारयन्त्यादरात् ॥ ६ ॥
मुन्युद्यानविकाशनोद्यमजुषि सद्देशनाशालिनि ।
सद्भावावलिभारनिर्भरभृति प्रज्ञादृशा शोभिनि ॥
विश्वानन्दविधायिनि स्मरमदोन्मादव्यथाध्वंसिनि ।
पंन्यासप्रवरेऽत्र भावविजये भक्त्या न के के नताः ॥ ७ ॥ कथं मुने ! विश्वजनीनवृत्ते ! घृणार्णवेन्दो ! जनतार्चितास्रे ! गुणान् प्रगुण्यानघमर्षिणस्ते ब्रुवेऽखिलान् वन्द्यपदारविन्दे !८ भावाष्टकमिदं भक्त्या मूलचन्द्रेण गुम्फितम् ॥ कान्ताचरणमग्नानां कुर्यात् कल्याणमञ्जसा
· ॥ ९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com