________________
=
=
=
=
==
=
श्री तपागच्छ-संविग्नशाखाप्रवर्तक योगीश्वर अनुयोगाचार्य पंन्यास सत्यविजयगणिपट्टक्रमानुगत-अनुयोगाचार्य पंन्यास श्री
भावविजयगणि
स्तुत्यष्टकम् तारुण्ये जयिना स्मरं विजयिनं जित्वाऽपि भोगार्हके ।
दधे येन महौजसाऽतितरसा जैनेश्वरी आदृता ॥ दीक्षाऽक्षाश्वबलप्रसारयमने सुप्रग्रहप्रोपमा । __पंन्यासप्रवरः स भावविजयो भूयाद् भवोत्तारकः ॥१॥ आत्मोत्कर्षनिरोधिनोऽगुणगणा यं वीक्ष्य शोकाकुलाः । ___जाताः श्रीकलिताङ्गमीक्ष्य मदनः शुष्यन्मदो लज्जया ॥ तारुण्योद्भवकामकेलिरचना संत्यज्य रागिस्थिता। __पंन्यासप्रवरं सुंभावविजयं वन्दे सदा भावतः ॥२॥ प्रज्ञोन्मेषवशादवापि सहसा सिद्धान्तमार्गो दृढः । ___ येनाऽकारि तपोऽन्तरं च विविधं बाह्यं च कृच्छ्राधिकम् ॥ प्राप्त्वाऽलाभि मनुष्यजन्मसुफलं संप्रोज्झता दुष्कथाः। ___ पंन्यासप्रवरेण भावविजयेनादायि बोधामृतम् ॥ ३॥ दुर्ध्यानोज्झितचेतसे गुणभृते कर्माष्टनाशेच्छवे ।
सम्यग्दर्शनशुद्धबोधविरतेराराधिनेऽसङ्गिने ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com