________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१४] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
|
प्रत सूत्रांक [१४] गाथा ॥१..||
,
सौमनस्यं तुष्टचित्तवं प्राप्तः (हरिसवसविसप्पमाणहिअए) हर्षवशेन विसर्पत् हृदयं यस्य सः, प्रमुदितचित्तप्राग्भारेणैव (धाराहयकर्यबसुरहिकुसुमत्ति) धाराहतं यत्कदम्बस्य सुरमिकुसुमं तद्वत् (चंचुमालहअत्ति) रोमाञ्चिता, अत एव (ऊससिअरोमकूवेत्ति) उच्छ्रितरोमकूपः, तथा (विअसिअवरकमलाणणनयणेत्ति) विकसितं वरं-प्रधानं यत्कमलं तद्वत् आननं-मुखं नयने च यस्य स तथा, प्रमोदपूरितत्वात् (पयलिअत्ति) प्रचलितानि-भगवदर्शनेन अधिकसम्भ्रमवश्वात् कम्पितानि (वरकडगत्ति) बराणि कटकानि-कङ्कणानि (तुडिअप्ति) त्रुटिताश्च-बाहुरक्षकाः 'बहिरखा' इति लोके (केऊरत्ति) केयूराणि च-अङ्गदानि 'बाजूवन्ध' इति । लोके (मउडकुंडलत्ति) मुकुटं कुण्डले च प्रसिद्धे, एतानि प्रचलितानि यस्य स तथा, (हारविरायंतवच्छेत्ति)। हारेण विराजमान हदयं यस्य स तथा, ततो विशेषणसमासः, (पालंबपलबमाणत्ति) प्रलम्बमानं यत्मालम्बो-|| झुम्बनकं (घोलंतभूसणधरेत्ति) दोलायमानानि भूषणानि च तानि धरति यः स तथा (ससंभमंति) सादरं (तुरिअं चवलं सुरिंदे सीहासणाओ अब्भुढेइत्ति) त्वरित-सौत्सुक्यं चपलं-कायचापल्योपेतं एवं यथा स्यात् तथा सुरेन्द्र सिंहासनावभ्युत्तिष्ठति (अन्मुहित्तत्ति) अभ्युत्थाय यावत् (पादपीढाओ पच्चोरहइत्ति) यत्र पादी स्थाप्येते तत्पादपीठं कथ्यते तस्मात्प्रत्यवतरति (पचोरुहित्तत्ति) प्रत्यवतीय च पादुके अवमुञ्चति, किंविशिष्टे ते ? (वेरुलिअत्ति) वैय-मरकतं नाम नीलरत्नं (वरिद्वरिदृअंजणत्ति) वरिष्ठे-प्रधाने रिष्ठअञ्जननानी श्यामरत्ने, एतै रत्नैः कृत्वा (निउणोवचिअत्ति) निपुणेन शिल्पिना रचिते इव, पुनः किंवि० मा
दीप
अनुक्रम [१४]
कल्प.सु.४
i
For
F
ate Only
... भगवन्तस्य च्यवन-अवसरे शक्रेन्द्र-कृत् भक्ति एवं स्तवना
-62