________________
कल्प
सूत्र
प्रत सूत्रांक
[२६]
गाथा
II-II
दीप
अनुक्रम
[२९२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [९]
मूलं [२६] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
व्या० ९
कल्प. सुबो-ग्रहं वाच्या, समग्रस्य च सूत्रस्य अयं भावः यावत्योऽन्नस्य पानकस्य वा दसयो रक्षिता भवन्ति तावत्य एव तस्य कल्पन्ते, न तु परस्परं समावेशं कर्त्तुं कल्पते, न च दत्तिभ्योऽतिरिक्तं ग्रहीतुं कल्पते, ( कप्पड़ से तद्दिवसं तेणेव भत्तद्वेणं पजोसवित्तए) कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन अवस्थातुं (नो से कष्पह दुश्चपि गाहाबद्दकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ( २३ ) ॥
॥ १८० ॥
( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पड़ निग्गंथाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां वा ( जाव उवस्सयाओ सत्तधरंतरं संखडिं संनिययारिस्स इत्तए) यावदू उपा श्रयादारभ्य सप्तगृहमध्ये संस्कृतिः - ओदनपाकः तां गन्तुं साधोर्न कल्पते, भिक्षार्थं तत्र न गच्छेदित्यर्थः, | एतावता शय्यातरगृहं अन्यानि च षड् गृहाणि वर्जयेदिति तेषां आसन्नत्वेन साधुगुणानुरागितया उगमादिदोषसम्भवात् कीदृशानां साधूनां ? -सन्निवृत्तचारिणां - 'सन्नियति निषिद्धगृहेभ्यः सन्निवृत्ताः सन्तः चरन्तीति तथा तेषां निषिद्धगृहेभ्योऽन्यत्र भ्रमतामिति भावः, अत्र बहुत्वे एकत्वं, भिक्षार्थं गन्तुं, बहवस्त्वेवं व्याचक्षते - सप्तगृहान्तरे सङ्घडि जनसङ्कुलजेमनवारालक्षणां गन्तुं न कल्पते, अत्रार्थे सूत्रकृत् मतान्तरा प्याह - ( एगे पुण एवमाहंसु नो कप्पड़ जाब उबस्सयाओ परेण संखडिं संनिपट्टचारिस्स इत्तए) एके पुनः एवं कथयन्ति नो कल्पते उपाश्रयादारभ्य परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थ गन्तुं
... अथ संखडी वर्जन विधिः दर्शयते
For Frate & Personal Use Only
385
संखटीवर्जनविधिः
सू. २७
२०
२५
1186011
२८